पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
सप्तदशः सर्गः ।
                      सप्तदश: सर्ग: ।


(१)शस्त्रैै: किमत्र भवतोऽनुचितै (२)रतीव (३)बालत्वकोमलभुजातुलभारभूतैः ॥ १३॥ (४)एवं (५)त्वमेव तनयोऽसि गिरीशगौर्योः किं यासि कालविषयं विषमैः शरैमै। (६)संग्रामतोऽपसर जीव पितुर्जनन्याः (७)तूर्णं प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥

विरम निवृत्तो भव । विपूर्वत्वात् रमधातोः परस्मैपदित्वम्। तत्र हेतुमाह-शस्त्रैरिति । अतीव बालस्येति शेषः । एतेनास्याक्षमत्वं व्यज्यते। भवतः तव बालत्वात् शैशवात् कोमलौ पेलवौ यौ भुजौ बाहू तयोः अतुलं बहु भारभूतै: वहनायोग्यैरित्यर्थः । अतएव अत्र मयि अनुचितैः अनुपयुतैः शस्त्रैः कृपाणादिभिः किम् अलम् । किंशब्दयोगे तृतीया। तव शस्त्राणि मयि निष्फलानीति भावः ॥ १३ ॥   एवमिति । रे शिशो। सम्बोधनपदमिदमूह्यम् । एवं पूर्वोक्तप्रकारः त्वम्। कर्ता। गिरीशस्य हरस्य गौर्याः पार्वत्यासू सम्बन्धौ तनयः पुत्रः असि भवसि एव । गिरीशगौरीतनयत्वादेताट्टशकार्ये त्वत्प्रवृत्तिरिति भावः । तथापि बालस्त्वमिति शेषः। मे मम विषमैः भीषणै: शरैः बाणैः । करणैः । किं कथं कालस्य शमनस्य विषयं गृहं यासि धावसि । मया सह योषु प्रवृत्तस्य ते मरणमवधारितमिति भावः। इदानीं कर्तव्यतामाह-संग्रामतः युद्धात् अपसर दूरं गच्छ । तथा जीव प्रणिहैि। युडापसरणे ते जीवनहनिर्नास्तीति भावः तथा तूर्णं सत्वरं यथा तथा पितुः जनकस्य मातुः जनन्याम्र


१)शकत् 
२) श्रासरै:,चरित्रै:
३) बालत्वकोमलभुजक्रमभारभूतैः, बालानकोमलभूजाक्रमभीरूभूतै:
४) एक:
५) एकतनय:
६) तन्नासत:
८)पूर्णम्