पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
कुमारसम्भवे


धूतानि तेन सुरसैन्यमहागजानां
सद्यः (७)[१]शतानि विधुराणि (८) [२]दलत्कुथानि।
पेतुः क्षितौ कुपितवासववच्चलून
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥
(९)[३]तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णु(१)[४]तुरङ्गमाश्च ।
(२)[५]विस्रस्तसारथिकुलप्रवराः समन्ताद्
(३)[६]याहृत्य पेतुरवनौ सुरवाहिनोनाम् ॥ ३० ॥

ओघाः प्रवाहः तेषां सहस्रस्य या लीला विलासः तां व्यातेनिरे विस्तारयामासुः गता इत्यर्थः ॥ २८ ॥

 धूतानीति । तेन वयुना। कर्ता। ध,तानि चालितानि तथा विधुuणि कातराणि तथा दलन् छिन्नः कुथः पृष्ठास्तारणभेदः येषां तादृशानि । अतएव कुपितः क्रुद्धः यो वासवः इन्द्रः तस्य वक्ष्या ण वलाख्यशस्त्रेण ल: छेदं प्राप्तः पश्चा: यस्य तथोक्तस्य भूधराणां पर्वतानां लस्य समूहस्य तुलां तुल्यतां सादृश्यमिति यावत् । वह्नन्ति धारयन्ति सुरार्च देवानां सैन्येषु सेनासु महतां गजानां सम्बन्धीनि शतानि। कणि । सद्यः सहसा क्षितौ रणभूमौ पेतुः निपतन्ति। उपमालङ्कारः ॥ २९ ॥

 ता इति । खरेण प्रचण्डेन मरुत वायुना। सत्र। दोधूयमाना: वारंवारं कम्पमानः । अतएव निपतिष्णवः निपतनशौलाः तरङ्गः घोटकाः यासां तादृशः । तथा ।


  1. कुलानि ।
  2. गलत्कुथानि ।
  3. अष्टाः।
  4. तुरङ्गमध्ये ।
  5. वित्रस्तसारथिवरप्रकराः विध्वस्तसारथिरथप्रवराः।
  6. व्याडत्तिमात्रः।