पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७९
सप्तदशः सर्गः ।


दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध
(६)[१]मुदप्तकोपदहनः सहसा सुरारिः ॥ ३४ ॥
(७)[२]वर्षतिकालजलदद्युतयो नभोऽन्ते
(८)[३]गाढान्धकारितदिशो घनधूमसङ्गः।
सद्यः प्रसवुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं (९)[४]
न हि सन्नयन्तः ॥३५॥

सैन्यम्। कर्मभूतम्। त्राख्यम् अविकलत्व' प्रपद्य लब्ध्वा पुनः युधि संग्रामे एव नतु पलायमे इति भावः । प्रद्युम्न नियुक्त दृष्ट्वा विलोक्त्र उद्दीप्तः यः कोप रोषः स एव दहनः अनलः यस्य तादृशः । सुराणाम् अरिः तारकः । कर्ता । सहसा तत्क्षणमेव इहं प्रज्वलितं दहनदैवतम् आग्नेयम् अस्त्रम् । कर्म। असृजत् तत्याज । तुदादिगणीयात् खजधातोर्लङ्॥ ३४ ॥

 वर्षेति । वर्वेषु अतिकालानाम् अतिकृष्णमां जलदान मेघानामिव धृतिः शोभा येषां तादृशाः । गाढं श्वशं तथा यथा तथा अन्धकारितः अन्धकारं प्रापिताः दिशः पूर्वादयः यैः तथोक्तः । तथा असितानि नीलानि यानि उत्पलानि पद्मानि तेषां यानि दमनि माख्यानि तेव भास इव भासः दौप्तयः येषां तथाभूताः । घनाः निविड़ाः धूमाग चाः समूहः। कर्तारः । अखिलं समग्रं जगत् दृगोचरत्व' इचि विषयत्वं नहि सन्नयन्तः नैव प्रापयन्तः सन्तः सर्वेषां दृष्टिश इरन्त इत्यर्थः। नीधातुत्वद्विकर्मकत्वम्। नभसः गगनस्य अन्ते अवकाशे सवाः तत्रणमेव प्रश्नस्सुः निस्तारं जगाम ॥ ३५ ॥


  1. उचैः प्रकोपदहनः।
  2. तत्कालजातजलद।
  3. तत्र ।
  4. घुसदां हरतः।