पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
कुमारसम्भवे


दिक्चक्रवाल(१)[१]गिलनैर्मलिनैस्तमोभि
र्लिप्त' (२)[२]नभःखलमलं घनंटन्दसान्द्रेः।
धूमैर्विलोक्य (३)[३]मुदिताः खलु राजहंसा •
गन्तु' सरः सपदि मानसमौषुरुचैः ॥ ३६॥
जज्वाल वह्निरतलः सुरसैनिकष
कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि (४)[४]विमलान्यखिलानि कौला
जालैरलं (५)[५]कपिलयन् सकलं नभोऽपि ॥३७॥

 दिगिति । राजहंसाः पक्षिभेदाः । कर्तारः । दिशां पूर्वादीनां यत् चक्रबलं मखी तस्स गिलनैः आच्छदकैः । तथा घनानां जलदानां यानि कृन्दानि तद्वत् सान्दैः निविद्धेः तमोभिः तमोरूपैः मलिनैः क्रूरैः धूमैः नभःस्थलं गगनम् धलं रणं यथा तथा लिप्तम् आच्छादितं विलोक्य खलु निरोच्चैव मुदिताः इष्टः सन्तः मेघोदयक्षमादिति भावः । सपदि सहसा भानमुं भानसुख्य सुरः सरोवरम्। कर्म। गरु यातुम् उच्चैः भृशं यथा तथा ईषुः अभिलषितवन्तः । वर्षाकाले मानसं यान्ति हंसा इति भावः ॥ ३६ ॥

 अक्षालेति । सुराणां देवानां सैनिकेषु सेनासु कल्पान्ते प्रये यः कालदहनः कालानलः तप्रतिमः तसदृशः। तथा नास्ति तुला सादृश्यं यस् तथोक्तः महानित्यर्थः । वक्।ि कर्ता । कोलानां शिखानां जालैः संवेः विमलानि निर्मलानि अखिलनि समग्राणि आशानां दिशां सुखानि तथा सवलं समग्रं नभोऽपि गगनश्च अलं भृशं यथा तथा कपिलयन् पिञ्जरौ कुर्वन् समन्तात् सर्वतः जव्वाल शशभे ॥ ३७ ॥


  1. मिलितैः ।
  2. नमस्तूलम् ।
  3. पिहिताः।
  4. अपिदधन्त्रिखिलानि ।
  5. कपिशयन्।