पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
कुमारसम्भवे



व्योमुचकै(१)रचिररुक्परिदीपितांशा-
(२), दृष्टिच्छदा (३) विषमघोषविभीषणा च ॥४३॥
व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवै(४)रविरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-
र्धारावलीभिरभितो ववृषे समूहैः॥ ४४ ॥

कवी ने प्रकाशिकेत्यर्थः । तथा विषमेण भयङ्करेण घोषेण विभीषणा भयजनिका । तथ उच्चकैः दृहति व्यस्त्रि आकाशे विषं तोयं कण्ठे अभ्यन्तरे यासां तथोक्तभिः । तथा उत्तालाभिः उत्कटाभिः कालाभिः कृष्णपक्षीयभि रजनीभिः यामिनौभिरिव जलदावलीभि: मघश्रेणोभिः उपलक्षिता सतौ विरुरुचे दिदीपे ॥ ४३ ॥

 व्योम्न इति । व्योम्नः गगनस्य तलं स्वरूपम् । कर्म। तथा ककुभाम् आशानां सम्बन्धौनि सुखानि अग्रभागान्। कर्म। पिदधताम् आच्छादयतम् । तथा अविरतैः निरन्तरैः गर्जारवैः गर्जनशब्हैः । करणै: । मनांसि चित्ताति तत्रत्वलोकामामिति भावः । कर्म। तुदतां पीङयताम्, अम्भो जलं बिभ्रति ये तथोक्तानाम् । भुधातोः कतेरि क्विप् । मेघानां सम्बन्धिभिः नमूहैः । कर्तभिः। प्रणनौयसौभिः अलघुतराभिः महतीभिरित्यर्थः । धीराणां सम्यातानाम् आवलीभिः श्रेणीभिः । करणभूताभिः । अतितरां भृशं यथा तथा अभितः समन्ततः। ववृषे अदृश्यत । आये लिट्प्रयोगः ॥ ४४ ॥