पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
सप्तदशः सर्गः ।

संसदमः सर्गः । यवापतत्स दनुजाधिपतिः परासुः (६)संवर्तकालनिपतच्छिखरीन्द्र (७) तुल्य: । तत्रादधात् फणिपतिर्धरणी फणाभि- स्तहूरिभारविधुराभिरधोव्रजन्तीम् ॥ ५२ ॥ स्वर्गापगासलिलसीकरिणी समन्तात् सौरम्यलुब्धमधुपावलिसेव्यमाना। कल्पद्रुम प्रसवदृष्टिरभून्नभस्तः शम्भोः सुतस्य शिरसि चिदशारिशत्रोः ॥५३॥

यत्रेति ॥ स दनुजाधिपतिः दैत्यराजः। कर्ता । परासुः गतप्राणः। अतएव संवर्तस्त्र प्रलयस्त्र​ काले समये निपतता पतनं गच्छता शिखरीन्द्रेण शैलेन्द्रण तुल्यः सदृशः सन् यव स्थले अपतत् पपात, तत्र स्थाने​ फाणनां सर्पाणां पतिः राजा घनन्तः। कर्ता। तस्य​ तारकासुरस्य यः भूरिभारः प्रभूतगौरवं सेन विधुराभिः कालराभिः फणाभिः आभोगेः । करणैः । अधो- जन्तों पातालं गच्छन्तों धरणीम् । कर्म । अदधात् दधार ॥ ५२ ॥

स्वर्गेति ॥ कल्पद्रुमाणां कल्पपादपानां सम्बन्धिनौ प्रसव- दृष्टिः कुसुमवषणम् । कर्यो । स्वर्गस्य​ आकाशस्य​ या अपगा नदी मन्दाकिनी तस्याः सलिलानां जलानां सीकराः कणा: सांन्त यस्त्राः तथाभूता । तथा समन्तात् चतुदिन सौरभ्येण सौगन्ध्येन लुब्धा लालुपाः याः मधुपावलय: भ्रमरश्रणयः ताभिः । कर्त्राभिः । सेव्यमाना अनुस्रियमाणा सती नभस्तः गगनात् त्रिदशानां सुराणां सम्बन्धिनः अरेः शत्रोः तारकासु रस्य शत्रोः हरस्य सुतस्य​ तनयस्य​ कार्तिकेयस्य सम्बन्धिनि

शिरसि मस्तके अभूत् पपात ॥ ५३ ॥

(६) संवर्तवात | (७) कल्पः । २५