पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
कुमारसम्भवे ।


मोक्ष्यते सुरवन्दौनां (५)[१]वेणोर्वीर्घविभूतिभिः ॥६१॥
इति व्याहृत्य विबुधान्विश्व​योनिस्तिरोदधे।
मनस्याहितकर्तव्यास्तेऽपि (६)[२]देवा दिवं ययुः ६२
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः ।
मनसा (७)[३]कार्यसंसिड्वौ त्वरादिगुणरंहसा ॥६३॥
श्रथ​(८)[४]स ललितयोषिदूभ्रूलताचारू(९)[५]श्टङ्गं
रतिवलयपदाङ्को चापमासज्य कण्ठे ।


“अत्मा वै पुत्रनामासि” इति श्रुतेः॥ वो युष्माकं सेनापतेर्भावः सैनापत्यम् ॥ “पत्यन्तपुरोहितादिभ्यो यक्” इति यक्प्रत्ययः ॥ उपेत्य प्राप्य वौर्यविभूतिभिः शौर्यसम्पत्तिभिः सुरवन्दौनां वेणौः मोच्स्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतौति भावः ॥६१॥

 इतौति ॥ विश्वस्य योनिः कारणम् । “योनिः स्त्रौणां भगस्थाने कारणे ताम्रिके पणे” इति वैजयन्तौ। विबुधान् सुरानिति व्याहत्याभिधाय तिरोदधेऽन्तर्हितवान्। ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वगैं ययुः प्रापुः ॥ ६२॥

 तत्रेति । पाको नाम कश्रिदसरस्तस्य शासन इन्द्रः तत्र​ हरचित्ताकर्षणक्कत्यो कन्दर्पं निश्रित्य । साधकत्वेनेति शेषः । कार्यससिथौ त्वरयौस्सुक्येन​ ।थौ गुणौ यस्य तद हिगुणं हिरा- वृत्तं रंहो​ वेगो यस्य तेन तथोक्तेन । “गुणस्तु वृत्तिशब्दादि- ज्येन्द्रियमुख्यतन्तुषु” इति वैजयन्तौ । मनसा अगमत् । सस्मारित्यर्थः । गमेर्लुङ्। खृदित्वाच्चुरेङादेशः ॥ ६३ ॥

 अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्यं


  1. वेणीबन्धानटूषितान् ।
  2. प्रति ।
  3. कर्मसंसिडि, कार्यसंसिर, कार्यसमिहि।
  4. सुललित।
  5. शार्ङ्नम्।