तृतीयः सर्गः १९
स च त्वदेकेषुनिपातसाध्यो ब्रह्मआङ्गभू(३)र्ब्रह्मणि योजितात्मा ॥ १५ ॥ तस्मै हिमाद्रेः प्रयतां तनूजां (४)यतात्मने रोचयितुम् यतस्व | योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ १६॥ गरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
भवस्य हरस्य वीर्यप्रभवं तेजःसंभूतं सेनान्यम्' सेनापतिमुशन्ति कामयन्ते "वश कान्तौ" इति धातोलृट् ॥ ब्रह्मणां सद्यो जातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्ग्भूः।कृतमन्त्रन्यास इत्यर्थः। ब्रह्मणि निजतत्त्वे॥ "वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा" इत्युभयत्राप्यमरः ॥ योजितात्मा नियमितचित्तः। मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः। स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः। अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥ १५॥
तस्मा इति॥ यतात्मने नियतचित्ताय तस्मै भवाय ॥ "रुच्यर्थानां प्रीयमाणः” इति सम्प्रदानत्वाच्चतुर्थी ॥ प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व ॥ भवितव्यं चात्र पार्वत्यैवेत्याह--योषित्सु स्त्रीषु मध्ये ॥ “यतश्च निर्धारणम् इति सप्तमी। क्षमा शक्ता तस्य हरस्य वींर्य रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पावत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम्। "उभे एव क्षमे वोढुम्” (२।६०) इत्यादिनोक्तमित्यर्थः।१६॥
सापीदानीं संनिकृष्टैव तस्येत्याह--
(३) ब्रह्मनियोजितात्मा। (४) जितात्मने।