पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
कुमारसम्भवे

[१]कुबेरगुप्तां दिशमुष्णरष्मौ
गन्तुं प्रवृत्ते समयं विलङ्घ्य।
दिग्दक्षिणा गन्धवहं मुखेन
व्यलीकनिश्श्वासमिवोत्ससर्ज ॥ २५ ॥
असूत सद्यः कुसुमान्यशोकः
स्कन्धात्प्रभृत्येव सपल्लवानि ।

 कुबेरेति ॥ उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं सङ्गमकालं च विलङ्घ्य अकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालिप्तां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां काञ्चिन्नायिकां च गन्तुं चलितुं संगन्तु च प्रवृत्ते सति दक्षिणा दिग् दाक्षिण्यवती नायिका च मुखेन अग्रभागेन वक्त्रेण च। वहतीति वहः । पचाद्यच् ॥ गन्धस्य वहं गन्धवहम् अनिशं व्यलीकेन दुःखेन वा निश्श्वासस्तं व्यलीकनिश्श्वासमिव । “दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः" इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिञ्चिद्वदा दुःखान्निश्श्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ता इति वाक्यार्थः । अत्रोत्प्रेक्षालङ्कारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यं केवलविशेषणसामर्थ्यादवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । न च श्लेष एव प्रकृताप्रकृतविषय उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्मादच्छब्दशक्तिमूलोऽयं धनिः। स च व्यलीकनिश्श्वासरूपचेतनधर्मसम्भवनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासादयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्श्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ॥ २५ ॥


  1. कुवेरगुप्तां