पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
कुमारसम्भव
     मधु द्विरेफः कुसुमैकपात्रे
     पपौ प्रियां खामनुवर्तमानः।
     शृङ्ग ण (७)च स्पर्शनिमीलिताक्षीं 
     म्रुगौमकण्डूयत खष्णसारः ॥ ३६ 
     ददौ (८)रसात्पङ्कजरेणुगन्धि 
     गजाय गण्डूषजलं करेणुः।
     अर्धिपभुक्तेन विसेन जायां
     सम्भावयामास रथाङ्गनामा ॥ ३७ ॥
  मध्विति ॥ द्वॉ  रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः ।

उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- “शब्द- धर्मेणप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफ त्वात् द्विरेफ भ्रमर:॥ कुसुममेवैकं साधारणं पात्रं तस्मिन् मधु मकरन्दम्॥ “मधु मद्य पुष्परसे” इति विश्वः। स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन् पपौ। तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलश्च कृष्णसारः ऊष्णमृगः ॥ “वर्णो वर्णेन” इति समासः । स्पर्शेन स्पर्श सुखेन निमीलिताक्षीं मृगीं शुङ्गणकण्डूयत कर्षितवान् । “कण्ड्रादिभ्यो यक्” डूति यक् । ततः कर्तरि लङ्ग् ॥ ३६ ॥

  ददाविति । रसादतरागात्करेणु: करिणी ॥ “'करेणु

रिभ्यां स्त्री नेमे” इत्यमरः । पङ्काज्जायत इति पड्जं तस्य रेणुः पञ्जरेणुस्तस्य गन्धोऽस्यास्तौति पङ्कजरेणुगन्धि गण्डूष जलं सुखान्तर्ध तजलं गजाय ददौ। रथाङ्गनामा चक्रवाको ऽर्ध यञ्च तथोपभुक्तेनार्धजग्ध न विसेन जायां सम्भावयामास। स्वजधशेषं ददावित्यर्थः ॥ ३७ ॥