पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
तृतीयः सर्गः ।

गीतान्तरेषु श्रमधारिलशैः
किञ्चित्समुच्छासितपयलेखम्।
पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं किंपुरुष (९)[१])चुचुम्बे ॥ ३८॥
पर्याप्त्पुष्प्स्त्वकस्त्नाथः
स्फ़ु रखवलोस्ष्नोहराभ्यः।
लताबधूभ्यस्तरवोऽप्यवापु•
र्विनमशाखाभुजबन्धनानि ॥ ३४ ॥

 गीतान्तरेष्विति ॥ किंपुरुषः किमरः श्रमवारिलेशैः स्वेदोदविन्दुभिः किञ्चिदीषत् समूथ्छासिता विश्वेषईत पत्रलेखा यस्व तत्। पुष्याणाम् असवो मद्य ' पुष्पासवः ।पुष्पोवामद्य मित्यर्थः । वसन्ते मधूकस्य सम्भवात्। पुष्यवासितमिति केचित् । तेनाघूर्णिताभ्यसुद्धान्ताभ्यां नेत्राभ्यां शोभत इति तथोत प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब |॥ ३८ ॥

 पर्याप्तति ॥ पर्याप्तः समग्राः पुष्पस्तवका एव स्तना । |यासां ताभ्यः । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकरूपात्र औप्॥ स्फुरन्तः प्रवालाः पल्लवा एवौष्ठाः तैर्मनो हंशयो लता एव बध्वस्ताभ्यः सका।शप्तरवोऽपि । लिङ्गदेव पुंस्व' गम्यते । विमत्रः शाखा ए र भुजास्तैर्बन्धनान्यवापुः । ताभिरालिळिता इत्यर्थः। स्थावराणामपि मदनविकारोऽभूत् किमुतान्येषामिति भावः । एतच्च तरुलतानामपि चेतमत्वादुतम् । बथाई मनुः-*अन्तःसंज्ञा भवभ्व ते सुखदुःखसमन्विता” इति । अत्र रूपकालंधरः ॥ ३९ ॥


  1. चुचुम्ब ।