पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
तृतीयः सर्गः ।

निष्कंपवृक्षं निभृतद्विरेफं
मूकाण्डजं शान्तमृगप्रचारम्
तच्छासनात्काननमेव सर्वं
चित्रपितारम्भमिवावतस्थे ॥ ४२ ॥
दृष्टिप्रपातं परिहृत्य तस्य
कामः पुरःशुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तनसेरुशाखं
ध्यानास्पदं भूतपतेर्विवेश ॥ ४३ ॥

 निष्कम्येति । निष्कम्यद्दक्षम । इदमुङ्गिच्लोपलक्षणम् । निभृतद्विरेफं निश्चलशृङ्गम् । स्वेदज्ञोपलक्षणमतत् । मूकाछजं नि:शब्दपक्षिसरीसृपादिकम् । एतंनाण्डजजतिरुक्ता । शान्तमृगप्रचारम् । जरायुजोपलक्षणमेतत् । सर्वमेव काननं तक्ष्छामनान्नन्दोश्वराज्ञया चित्रर्पितारम्भ चिवालिखितारअथमिवावतस्य ॥ "मृगवाद्य जरायुजाः । स्वेदजाः कमिदंशाद्यायः पक्षिसर्गादयोऽण्डजाः। उद्भिदस्तरुगुस्ग्न्यद्या:” इतस्तरः ॥ ४२ ॥

 दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्र यस्मिन् देशे तं पुर:शुक्रं देशमिव ॥ "प्रतिशुक्रे प्रतिबुधं प्रत्यइनरकमेव च । अपि शक्रसमो राजा हतसैन्य निवर्तते” इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परित्य प्रान्त षु पखदेशेषु संसक्ता धन्योन्यसंस्रष्टा नमेरुणां सुरपुंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूवपते : शिवस्य ध्यानास्पदं समाधिस्थानम् । "श्वास्पदं प्रतिष्ठायाम् इति निपातः । विवेश ॥ ४३ ॥