पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/13

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
कुमारसम्भवे

पद्मानि यस्याग्रसरोरुहाणि
प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १६ ॥
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं
शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥
स मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।

"इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६ ॥
     यज्ञाङ्गेति ।। यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । "यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः" इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । "सारो बले स्थिरांशे च" इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । "सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती" इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । "पत्यन्तपुरोहितादिभ्यो यक्" इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-"शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः" इति ॥ १७ ॥
     संप्रति कथां प्रस्तौति--
     स इति ॥ मेरोः सखा मेरुसखः । बन्धुसम्पन्न इति भावः ।