पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/18

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रथमः सर्गः ।


तां पार्वतीत्याभिजनेन नाम्ना
बन्धुप्रियां बन्धुजनो जुहाव ।
उ मेति मात्रा (६)[१]तपसो निषिद्धा
पश्चादुमाख्यां सुमुखो नगाम ॥ २६ ॥
महीभृतः पुत्रवतोऽपि दृष्टि-
स्तस्मिन्नपत्ये न जगाम तृप्तिम् ।

नीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । "स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्" इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- "वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा" ॥ २५ ॥
     तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः । अभिजनात् आगतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । 'अभिजनाः पूर्वबन्धवा:' इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । "तस्यापत्यम्" इत्यण् प्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रुपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या । उ इति संबोधने । "उ इति वितर्कसंबोधनपादपूरणेषु" इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से, मा मा कुर्वित्येवंरुपेण । तपसस्तपश्चर्यायाः । "वारणार्थानामीप्सितः" इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बालोमेत्याख्यां नामधेयमुमाख्यां जगाम ॥ २६ ॥
     महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः ।। 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्" इत्येकशेषः ।। तेऽस्य सन्तीति पुत्रवान् ।। भूमार्थे मतुप् । तस्य पुत्रवतोऽपि बह्वपत्यस्यापीत्यर्थः । मही-


(१) तपसे ||

  1. तपसॆ।