शेषाङ्गनिर्माणविधौ विधातु- |
पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात् पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्जङ्गे इति भावः । आसेति बभूवार्थे | "तिङन्तप्रतिरूपकमव्ययम्" इत्याह शाकटायनः । वल्लभस्तु- "न तिङन्तप्रतिरूपकमव्ययम्" 'आस्तेर्भूः' इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयोगः" इत्याह । वामनस्तु- "अस गतिदीप्त्यादानेष्विति धातोर्लिटि रूपमिदम्" इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे | आस दिदीपे । प्रवृत्त इत्यर्थः ॥ ३५ ॥
नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः | लोके परिणाहि वैपुल्ययुक्तम् । "परिणाहो विशालता" इत्यमरः । रूपं लब्ध्वापि । अपिशब्दात् करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरूपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ॥ ३६ ॥
एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ।। "प्रश्नावधारणानु-
- ↑ कान्ति।