पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/26

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
प्रथमः सर्गः।


नोवोमतिक्रम्य सितेतरस्य
तन्मेखलामध्यमगोरिवार्चिः ॥ ३८ ॥
मध्येन सा वेदिविलग्मध्या
वलित्रयं चारु बभार बाला ।
त्ररोहणार्थं (२)नवयौवनेन
कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥
त्रन्योन्यमुत्तिपो डंत्यदुत्पलाक्ष्याः
स्तनव्दयं (३)पाराडु तथा (४)प्रवृद्धम् ।

पादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । "ज्वालाभासोर्नपुंस्यर्चि" इत्यमरः ॥ ३८ ॥
     मध्येनेति ॥ "वेदिः परिष्कृता भूमिः" इत्यमरः ॥ वेदिविलग्नमध्या वेदिवत् त्कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ ३९ ॥
     अन्योन्येति । अन्योन्यं परस्परम् । "कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये" इति द्विरुक्तिः । "समासवच्च बहुलम्" इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन


 (२) नवयौवनस्य कमिन। (३) चारु। (४) विवृङ्कम् ।
३८ - ३६ क्ष्लोकयोर्मध्ये क्ष्लोकोन् ट्टश्यते ------
 गम्भीर(२) नाभीङ्कढसन्निधाने रराज नीला नवलोमराजिः ।
 मुखेन्दु(२) भीरुस्तनचक्रवाकचज्ञुच्युता शैवलमज्ञारोव ।
( १ नाभि । २ भौत । )