पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/28

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथमः सर्गः ।
                 प्रथम सर्गः।           २७
          अन्योन्यशोभाजननाद्बभूव 
          साधारणो भूषणभूष्यभावः ॥ ४२ ॥
          चन्द्रं गता पद्मगुणान्न भुङ्क्तो 
          पद्माश्रिता चान्द्रमसौमभिख्याम् ।
          उमामुखं तु प्रतिपद्य लोला 
          द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ ४३ ॥


कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । "वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्" । "कलापो भूषणे बर्हे तूणीरे संहतावपि" इति च अमरः ।। अन्योन्यशोभाजननाद्भूषणभूष्यभावोऽलङ्कारालङ्कार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः ।। अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालङ्कारः । तदुक्तम्-"परस्परं क्रियाजननमन्योन्यम्" इति ॥ ४२ ॥

    इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वाचोभङ्ग्याह-
    चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान् सौगन्ध्यादीन्न भुङ्क्तो नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । "अभिख्या नामशोभयोः" इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्तो ।  उमामुखं प्रतिपद्य तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिम् आनन्दमवाप । तत्रोभयगुणसम्भवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोत्या व्यतिरेकालङ्कारः । तदुक्तम्- "भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः" इति ॥ ४३ ॥