पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/29

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
कुमारसम्भवे


         पुष्पं प्रवालोपहितं यदि स्यात्
         मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
         ततोऽनुकुर्याद्विशदस्य तस्या:
        (५)ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ ४४ ॥
        स्वरेण तस्याममृतस्त्रुतेव 
        प्रजल्पितायामभिजातवाचि ।
        (६)अप्यन्यपुष्टा प्रतिकूल(७)शब्दा 
        श्रोतुर्वितन्त्रीरिव ताह्यमाना     ॥ ४५ ॥


    पुष्पमिति ।। पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । "प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे" इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्याद्यदि । ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र "माषाणामश्रीयात्" इतिवत्सम्बन्धमात्रविवक्षया षष्ठी। अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धोऽपि संबन्धोक्त्यातिशयोक्तिः । "सा च सम्भावना" इत्यङ्कारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरूपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालङ्कारः । तदुक्तम्-- "उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः" इति लक्षणात् । स च पूर्वोक्तातिशयोत्यनुप्राणित इति    ॥ ४४ ॥
    स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वाभ

‍‍‍‍(५)ताम्नोष्ठ-। (६)अप्यन्यपुष्टाः । (७)-शब्दाः