पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/30

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
प्रथमः सर्गः।


प्रवातनीलोत्पलनिर्विशेष-
मधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्य-
स्ततो गृहीतं नु मृगाङ्गनाभिः ॥ ४६ ॥

वाद् ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव "अवितॄस्तृतन्त्रिभ्यः- ईः" इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न "हल्ङ्याब्भ्यः-" इति सुलोपः । तदुक्तम्- "अवीलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादितः । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन" इति । एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दा कर्णकठोरनादा भवतीति शेषः ॥ ४४ ॥
     प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ ४६ ॥


 ४५ - ५६ क्ष्लोकयोर्मध्ये इमौ क्ष्लोकौ ट्टश्य्रेते ----
कर्णाट्वयस्थं नगराजपुत्रवास्ताटङ्कयुग्मं (१)सुतरां रराज ।
(२) मत्वा भवित्रीं त्रिपुरारिपत्रीं (३) तां सेवमानाविव प्ष्पवन्तौ ॥
 ( १ नितरां बभास । २ ज्ञात्वा । ३ सेवासमेतौ । )
ताटङ्क (१) पत्रं विरराज तस्याः शैलात्मजायाः श्रवणाइयस्थम् I मत्वा भवित्रीं मदनारिपत्रीं सेवासमेताविव (२) पुष्पवन्तौ ॥
 ( १ युग्मं । २ पुष्पदन्तौ । )