प्रथमः सर्गः । ३१
सर्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विखसृमा प्रयत्ना - देकस्थसौन्दर्यदिदृत्तयेव ॥ ४२ ॥ तां नारदः कामचरः कदाचित् कन्यां किल प्रेत्त्य पितुः समौपे । समादिदेशौ (९) कवश्वूं भविचो प्रेम् णा शरौरार्श्वहरां हरस्य ॥ ५० ॥
सर्वोपमेति ॥ किंबहुना सा पार्वतौ विश्वसृजा विधात्रा एकत्र तिष्ठतोत्येकस्थं तस्य सौन्दर्यस्य। सर्ववस्तुगतस्येत्यर्थः दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थि - त्वाहिश्वसृज इति ॥ ४९ ॥
तामिति ॥ कामेन इच्छया चरतोति कामचरो नारदः कदाचित् पितुिर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेश्य किल प्रेमृणा न त्वन्यथा हरस्य शिवस्थार्धं हरतोत्यर्धहरा ॥ ` “हरते- रनुद्यमनेऽच्” इत्यच्प्रत्ययः ॥ शरौरस्यार्धहर्रां शरौरार्धह- राम्। कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात् समासः। अन्यथा त्वर्धस्य स्वमप्रविभागवचनत्वादर्धशरौरेति स्वात्॥ एकवधमसपत्नोकां भार्याम् ॥ पूर्वकाल--” इत्या- दिना समासः ॥ भवित्रीं भाविनीं समादिदेश ।हरस्यार्धा - ङ्ग हारिण्येकपन्तौ भविष्यतौत्यादिष्टवानित्यर्थः || ५० ॥
(<) एकवधूः |