पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/33

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
कुमारसम्भवे

३२ कुमारश्भवे

गुरुः प्रगल्भोऽपि वयस्यतोऽस्या- स्तस्वौ (१) निवृत्तान्यवराभिलाषः । ऋते क्लशानोर्न हि मन्त्रपृत- मर्हन्ति तेजांस्यपराणि हव्यम्‌ ॥ ५१॥ प्रयाचितारं न हि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक । प्रभ्यर्थनाभङ्गभयेम साधु- र्माध्यखामिष्ठेऽप्यवलम्बतेऽर्थे ॥ ५२ ॥

गुरुरिति । गुरः पिता । "गुरू गौष्पतिपित्राद्यौ” इत्य मरः ॥ प्रतो नारदवचमाष्टोतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन्‌ । “वरो ना रूपजामात्रोः” इति वेवैजयन्तौ । तस्थौ । वरान्तरं मान्विष्टवानित्यर्धः ॥ ननु कुतोऽमौ निर्बन्ध इत्यत प्राह- ऋत इति ॥ तथाहि मन्त्रैः पूतं संस्कृतं यत इति हव्यमाज्यादिकं क्लशामोः पावकादृते क्लशानुं विना ॥

"श्रन्यादितर--” इत्यादिना पञ्चमौ ॥ प्रपराणि तेजांसि सुवर्णदोनि नार्हन्ति। न भजन्तोत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः॥ ५१॥

तर्हि तभेवाहूय दौयतामित्याशङ्काह- प्रयाचितारमिति ॥ प्रद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुः स्वयमाश्य परग्रा हयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः ॥ “साध र्वार्धषिके चारौ सज्जने चाभिधेयवत्‌" इति विश्वः ॥ प्रभ्यर्थ नाभङ्गभयेन याज्जावैफल्यभौत्येष्टे ऽप्यर्थे विषये माध्यसथ्यमौ दासौन्यमवलम्बते ॥ ५२॥

निवृत्तान्यतराभिलाषः।