पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/35

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
कुमारसम्भवे


गणा नमेरुप्रसवावतंसा
भूर्जत्वचः स्पर्शवती(५)[१] र्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः
शैलेयनद्धेषु शिलातलेषु ॥ ५५ ॥
तुषारसंघातशिलाः खुराग्रैः
समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कर्थाच्चिद्गवयैर्विविग्नै-
रसोढसिंहध्वनिरुन्ननाद ॥ ५६ ॥

किच्चित् किमपि हिमार्द्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । "उपान्वध्याङ्वसः" इत्याधारस्य कर्मत्वम् ॥ "प्रस्थोऽस्वौ सानुमानयोः" इत्यमरः ॥ ५४ ॥
     गणा इति ॥ गणाः प्रमथगणाः ॥ "गणाः प्रमथसंख्यौघाः" इति वैजयन्तो ॥ नमेरुप्रसवावतंमाः सुरपुंनागकुसुमशेखराः । "नमेरुः सुरपुंनागः" इति विश्वः ॥ स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताख सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः ॥ शिलायाः "स्त्रौभ्यो ढक्" इति भवार्थे ढक् । "शिलाजतु च शैलेयम्" इति यादवः ॥ तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः ॥ ५५ ॥
     तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगषिशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तौति ककुद्मान् वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद ।


  1. वसाना:।