पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/37

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
कुमारसम्भवे


                                   कुमारसम्भवे

प्रत्यर्थिभूतामपि तां समाधेः

शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारतो सति विक्रियन्त
येषां न चेतांसि त एव धौराः ॥ ५१ ॥ 

अवचितबलिपुष्पा वेदिसंमार्गदक्षा

नियमविधिजलानां बर्हिषां चोपमेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥६२॥

व” इति यत्प्रत्ययः ॥ “ षट् तु विष्वष्य मर्घार्थ पाद्य पादाय वारिणि” इत्यमरः ॥

चर्चयित्वा पूजयित्वा स्येवर स्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनज सुत समादिदेश भाज्ञापयामाम ॥ ५८ ॥

प्रत्यर्धीति । गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिप- चभूतामपि ॥ सुप्सुपेति समासः ॥ श्रोतुमिच्छन्तीं शुश्रूष- मायां सेवमानाम् । सेवका हि सेव्य दत्सकर्णा भवन्ति ॥ इच्छार्थे सन्प्रत्ययः ॥ “नावस्थां सनः" इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गचकार। न प्रतिषिद्धवानित्यभिप्रायः । न चेतावता धौरस्य कसिद्दिकार इत्याशयः । धीरत्वमेवार्था न्तरन्यासेनाह - विकारेति विकारस्य प्रक्कतैरन्यथात्वस्य तो खीसविधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रियन्ते न विकृतिं नीयन्ते त एव धीराः ॥ "विक्रि' यन्त' इति कर्मणि लट् ॥ ५८ ॥

शुश्रूषाप्रकारमेवाह—

पवेचितति ॥ सुकेशी शोभनमूर्धजा ॥ "स्वाङ्गाचोपस- नादसंयोगोपधात्” इति ङीप् ॥ सा पार्वती अवचितानि मानि बलिपुष्पाणि पूजाकुसुमानि यया सा वेदेर्नियमवेदि