पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/38

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः ।

        तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । 
       तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥ १ ॥

कायाः संमार्गे संमार्जने दवा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपनेती धानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः ॥ " पादा रश्माति तुयशाः" इत्यमरः ॥ नियमितपरिखेदा निवर्तित- परिश्रमा सती अहन्यहनि प्रत्यहम् ॥ “अव्ययं विभक्तिसमीप- समृद्धि - इत्यादिना नियतार्थेऽव्ययौभावः ॥ " नपुंसकाद- न्यतरस्याम्” इत्यच्प्रत्ययः ॥ गिरिशम् उपञ्चचार शुश्रूषां- " चक्रे ॥ ६० ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथ सुरिविरचि- तथा मनोविनोसमाख्यया व्याख्यया समेतः श्रीकालि- दासकृत कुमारसम्भवे महाकाव्य उमोत्पत्तिर्नाम

                      प्रथमः सर्गः ।

तस्मित्रिति ॥ तस्मिन् काले पार्वतीशुश्रूषाकाले तारकेण तारकनान्या वन्त्रणख पुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः ॥ “दिवं खर्गेऽन्त- रिक्षे च” इति विश्वः ॥ द्यौरोक इति पचे पृषोदरादित्वात् साधुः ॥ तुरं त्वरितं साहयत्यभिभवतीति सुराषाट् ॥ साहयते- योरादिकात् किप् । “नहिवृतिवृषि” इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । सुग्ध- बोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवे- न्द्रम् ॥ अनादिषु साडू पत्वाभावात् “सहेः साडः सः” इति पत्वं न भवति ॥ पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मणः इदं स्वायंभुवम् ॥ संज्ञापूर्वक विधेः श्रनित्यत्वात् " श्रोर्गुचः” इति गुणो न ॥ धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः ॥ १ ।

8