एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
द्वितीयः सर्गः ।
यदमोघमपामन्तरुपं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ ५ ॥
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ ६ ॥
"गुणाः सत्त्वं रजस्तमः" इत्यमरः ।। भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयुषे प्रात्पवते ।। "उपेयिवाननाश्वाननूचानश्च" इति निपातः ।।
अतएव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः ।। "नमःस्वस्ति-" इत्यादिना चतुर्थी ।। उक्तं च- "नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे विरूपाय स्वयंभूवे" इति ॥ ४ ॥
यदिति ॥ न जायत इत्यजः । हे अज। अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तम् ।। "मुक्तम्" इति पाठे विसृष्टमित्यर्थः ॥ "शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च" इत्यमरः । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् ॥ समाहारे द्वन्द्वैकवद्भावः ॥ विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे ॥ "अदश्चराचरं विश्वं प्रसवस्तस्य गीयते" इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः ॥ अत्र मनुः- "अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्" इति ॥ ५. ॥ तिसृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयौभिर्हरिहरब्रह्मस्वरुपाभिर्महिमानं निजशक्तिमुदीरयन् विजृभ्यन् प्रल्यस्थितिर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं "पश्चाद्भेदमुपेयुवे" (२।४) इत्यस्य विवरणमतो नं मतार्थत्वदोषः ॥ ६ ॥ भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थं मूर्तिमतो ब्रह्मणो भेदमाह-