पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/41

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
कुमारसम्भवे



स्त्रीपुंसावात्म(१) भागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ ७ ॥ स्वकाल(२)परिमाणेन व्यस्तरात्रिंदिवस्य ते । (३) यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ ८ ॥


    स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंँमौ ॥ "अचतुर-" इत्यादिनाच्प्रत्ययान्तो निपातः ॥ सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । "आत्मा जोवे धृतौ देहे स्वभावे परमात्मानि" इति विश्वः । तौ ऍव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गः तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । "पिता मात्रा" इत्येकशेषः ॥ स्मृतौ । वृद्धैः इति शेषः ॥ अत्र मनुः- "द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत्  अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः" इति ॥ ७ ॥
    स्वकालेति । स्वकालस्य परिमाणेन "चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते" इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि "अचतुर-" आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि "दोषामन्यमहः" "दिवामन्या रात्रिः" इत्यादौ कर्मवटवापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टौ । यदाहुः- "यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते" इति ॥ एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥ ८ ॥

(१)-भावौ। (२)परिणामेन। (३)यौ स्वप्नावबोधौ तावेव, स्वप्नावबोधौ भूतानां तवेव।