४२ कुमारसम्भवे द्रवः सङ्गातकठिनः खुलः सूक्श्मो (६)लधुर्मुकः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्य ते विभूतिषु ॥११॥ (७)उहातः प्रणवो यासां न्यायैस्विभिरुदौरणम् कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥१
ट्रव इति ॥ त्वमिति अनुषज्यते। हे भगवन् । त्वं द्रव
सरित्समुद्रादिवद्रसात्मकांऽसि। सङ्गातेन निविड़संयोगेन कठिनो महीधरादिवत्। स्थूल इन्द्रियग्रहणयोग्यो घटादि- वत्। सूक्श्मोऽतौन्द्रियः परमाखादिवत् । लघुरुत्पतनयोग्य- स्तूलादिवत्। गुरुर्हेमाद्रिवदचलनीयः। व्यक्तः कार्यरूपो- ऽसि। व्यक्तsतर: कारणरूपश्चासि। एवं विभूतिष्वणिमादिषु तं तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ ११॥
उहात इति । हे भगवन्। यासां गिरां वाचामुहात
उपक्रमः प्रणव ओंकारात्मकः । “ओंकारप्रणवौ समौ" इति। “स्वादभ्यादानवुहात आरम्भः” इति चामरः । इदमुपसंहा- रस्याप्युपलक्षणम् । “ब्राम्हणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्ये नः कृतं पूर्वं परस्ताञ्च विशेषतः" इति निरुक्तपरिशि- ष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः। उक्तं च-"स्वरविशेषादर्थप्रतिपत्तिः" । "यथेन्द्रशत्रुः स्वरतो- ऽपराधात्" इति। यासां गिरां विभिार्न्यायैरुदात्तानुदात्त स्वरितैः स्वरैकदौरणमुच्चारणम्। यासां कर्म। प्रतिपाद्यमि- त्यर्थः। यत्रो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्ग:। कर्महारति शेषः । कर्मस्वर्गौ ब्नाह्माप- वर्गयोरप्युपलक्षणे। त्वं तासां गिराम्। वेदानामित्यर्थः । प्रभवत्यस्मात् इति प्रभवः कारणम्। प्रणेता स्मर्ता वा मत. भेदेन ॥ १२॥ (६) गुरुर्लघुः। (७) उडीथः ।