पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/45

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
कुमारसम्भवे


वेद्यं च वेदिता चासि, ध्याता ध्येयं च यत्परम् ॥ १५ ॥ इति तेभ्यः स्तुतीः श्रुत्वा (९)यथार्था हृदयंगमाः । प्रसादाभिमुखो (१)वेघाः प्रत्युवाच दिवौकसः ॥ १६ ॥ पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ १७ ॥

होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । "भोज्यं भक्ष्ये" इति निपातनात कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्यं वस्तु वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्यय-विशेषप्रवाद्वो ध्यानम् ॥ १५ ॥

 इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । "आख्यातोपयोगे" इत्यपादानत्वात्पञ्चमी ।। यथार्थाः सत्या अतएव हृदयं गच्छन्तीति हृदयंगमा मनोहराः ।। खच्प्रकरणे "गमेः सुप्युपसंख्यानम्" इति खच्प्रत्ययः । "अरुर्द्विषजन्तस्य मुम्" इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान् प्रत्युवाच ॥ १६ ॥

 श्रथ् कविराह-

 पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा ॥ "संख्याया अवयवे तयप्" इति तयप् । "टिङ्ढाणञ्द्वयसच्-" इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- "वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी" इति । पुराणास्य पुरातनस्य ।। पृषोदरादित्वात्-