पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/49

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
कुमारसम्भवे

आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः(६)क्षतहुङ्कारशंसिनः ॥ २६ ॥ लब्धप्रतिष्ठाः प्रथमं (१) यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥ तद्ब्रूत वत्साः किमितः (२)प्रार्थयध्वे समागताः । मयि सृष्टिर्हि (३) लोकनां रक्षा युष्मास्ववस्थिता ॥ २८ ॥

आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मौलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यमुमा- पका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥

    लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धा-

वकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात् प्रबल- तरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्य- शास्त्राणि "मा हिंस्यात्" इत्येवमादीनि । अपोद्यन्त एभि- रित्यपवादैः "गामालभेत" इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसङ्गोचरूपबाधा इत्यन्यत्र । "विषयसंकोच एव बाधः" इत्याचार्याः । निषेध- शास्त्रस्य वैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापना- द्विषयसंङ्कोच इत्यलमतिगहनावगाहनेन ॥ २७ ॥

   तदिति ॥ तत् तस्मात्कारणात् । हे वत्साः पुबकाः । 

"वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि" इति विखः । स्वयं पितामहत्वादु वत्सा इत्यामन्त्रयते । संभूयागताः समागता

(६) क्षताहङ्कार। (१) न खलु स्थ बलोत्तरैः। (२) प्रार्थयध्वे। (३) भूतानाम्।