पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/52

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
द्वितीयः सर्गः।


                        द्वितीयः सर्गः ।                        ५१
              सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
              नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥३४॥
              व्याव्ट​त्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
              न वाति वायुस्तत्पार्श्वे तालव्टन्तानिलाधिकम् ३५ 
              पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । 
              उद्यानपालसामान्यमृतत्रस्तमुपासते ॥ ३६ ॥ 
              तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
         सर्वाभिरिति ॥ चन्द्रः तं तारकं सर्वदा । कृष्णपक्षे-पोत्यर्थः । सर्वाभिः कलाभिर्निषेवते । “कला तु षोड़गां भागः" इत्यमरः ॥ केवलां हरचूडामणीकृतां शिवशिरोमणी शतां लेखां नादत्ते न गृह्नाति ॥ ३४ ॥
         व्यावृत्तेति ॥ वायुः । स्तेनस्य मावः कर्म वा स्तेयं चौर्यम् । " स्तेनाद्यव्र​लोपस" इति यत्प्रत्ययो नलोपञ्च​ ॥ कुसुमानां स्तेयं तस्मात् स्तेयाभियोगाद्द​ण​दा साध्वसं भयं तस्माणेतो कद्याने व्यावृत्तगतिः । निवृत्तोद्यानसञ्चारः सन्नित्यर्थः ॥ सापे क्षत्वेऽपि गमकत्वात्समामः । तत्पार्श्वे तत्समीपे । तालस्व वृन्तैरुदग्रथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तं तस्या-निलाद व्यजनसञ्चारपवनात् अधिकं यथा तथा न वाति । "व्यजनं तालवृन्तकम्" इत्यमरः ॥ ३५ ॥
         पर्यायेति ॥ ऋतवः षड्वसन्तादयः पर्यायसेवामुत्सृज्य पुष्याणां सम्भारे संग्रहे तत्पराः। आसक्ताः सन्त इत्यर्थः ॥ 'तत्परे प्रसितासक्तौ” इत्यमरः । उद्यानपालैः उद्यानाधि व्रतैः सामान्यं साधारणं यथा भवति तथा तं तारकम् उपासते सेवन्ते । शौतोष्णादिदोषप्रकाशनं तु दूरापास्तमि अर्थः ॥ ३६ ॥
         तस्येति । सरितां पतिः समुद्रस्तस्य तारकस्वोपायमामां राभृतानां योग्यानि ॥ "प्राभृतं तु प्रदेशनम्। उपायनम्”