पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/59

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
कुमारसम्भवे ।


(७)[१]न्टतं तेनेदमेव (८)[२]प्राङ्मया चास्मै प्रतिश्रुतम् ।
वरेण (९)[३]शमितं लाकानलं दग्धुं हि तत्तपः ॥५६॥
संयुगे सांयुगौनं (१)[४]तमुद्यतं प्रसहेत कः।
अंशादृते निषिक्तस्य नौललोहितरेतसः ॥ ५७ ॥
स हि देवः परं ज्योतिस्तमःपारे (२)[५]व्यवस्थितम्
परिच्छिन्नप्रभावर्धिर्न​ मया न च विष्णुना ॥५८॥

म्प्रतमित्यनेन निपतिनाभिहितत्वाहृघ इति हितौयान्तो न भवत्यनभिहिते कर्मणि हितौयाभिधानात्। यथाह वामन:- "निपतिनाप्यभिहिते कर्मणि नविभक्तिः परिगणनस्य प्रायिकत्वात्" इति ॥ ५५ ॥

 वृतमिति ॥ प्राक् पूर्वं तेनासुरणेदमेव देवैरबध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । "प्रत्याङ्भ्यां श्रुव: पूर्वस्य​ कर्ता" इति सम्प्रदानत्वाश्चतुर्थो॥ कर्तव्यं चैतदित्याह-लोकान्दग्धुमलं शक्तम् ॥ "पर्याप्तिवधनेष्वलमर्थेषु" इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितं हि। मयेति शेषः ॥५६॥

 संयुग इति ॥ संयुगे युत​ उद्यन्तं​ व्याप्रियमाणमृ। संयुगे साधुं सांयुगौनम् ॥ "प्र​तिजनादिभ्यः खञ्" इति खञ्प्रत्ययः ॥ तं तारकं निषिक्तस्य क्कचित् क्षेत्रे क्षरितस्य । “नौल: कण्ठे लोहितत्व केशेष्विति नौललोहित इति पुराणम्" इति स्वामौ ॥तस्य नौललोहितस्य धूजंटे रेतसः शुक्रस्यांशाद्तेऽशं विनान्यः कः प्रसहेत अभिभवेत् ॥ “प्रसहनमभिभवे" इति वृन्तिकारः ॥५७॥

 कथमसावौद्क्श​तिरित्याह--

 म इति । स देवो नौललोहितस्तमसः पारे परतो व्यव-


  1. हतः।
  2. पहम. पाटी।
  3. पमितम् ।
  4. तमुबन्तम तं युवन्तम्।
  5. प्रतिष्ठितम् ।