पृष्ठम्:Lévi - Mahayana-Sutralamkara, tome 1.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XVII-N VIII. भवति । बहुगणं मित्रं तदन्यैर्गुणैः । हितमनुकम्पकत्वेन वेदितव्यं । एति सर्व- सिद्धिमिति स्वपरार्थसिद्धिं प्राप्नोतीति । महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः समाप्तः XVIII लज्जाविभागे षोडश श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ १ ॥ एतेन स्वभावसहायालम्बनकर्मसंपद चतुर्विधं लक्षणं बोधिसत्वलज्जायाः संदर्शितं । हीनानवद्यविषया। श्रावकप्रत्येकबुद्धानां । तद्विहीनं च महायाना दनवधे च । तन च बोधिसत्वो लज्जते । कथं सत्वानां पाचिका । तस्यामेव लज्ज्ञापारमिताविपक्षवृद्धा तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् । षणां पारमितानां निषेवणालस्यतो भवति लज्जा । क्लेशानुकूलधर्मप्रयोगतश्चैव धीराणां ॥ २ ॥ इयमप्रयोगलज्जा पारमिताभावनायामप्रयोगेन । क्लेशानुकूलेषु धनेष्वि- न्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् । असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्वधिका ॥ ३ ॥ इयं मृद्वधिमात्रा लज्जा। पूर्वनिर्देशानुसारेणास्य श्लोकस्याथों ऽनुगन्तव्यः । अतः परं चतुर्भिस्त्रिभिश्च श्लोकैर्यथाक्रमं लज्जाविपक्षे लज्जायां च दोष गुणभेदं दर्शयति लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः ।। प्रतिघोपेक्षामानः सत्वानुपहन्ति शीलं च ॥ ४ ॥ (D) Metre arya jusquau vers 15 . – (१yomicals, mot nouvemforma- tion incorrecte gloske dans le commentaine par yomicommuskram