एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । ॥ * ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् ॥ तीयस्तीयप्रत्ययान्तः, द्वितीयतृतीयशब्दौ । डिन्सु ङे ङसिङस् डिषु । - तेन द्वितीयस्मै, द्वितीयाय; द्वितीयस्मात्, द्वितीयात्; द्वितीयस्मिन्, द्वितीये इति पुन्नपुंसकयोः । द्वितीयस्यै, द्वितीयायै; द्वितीयस्याः, द्वितीयायाः; द्विती- यस्यां द्वितीयायाम् इति स्त्रियामपि रूपद्वयम् । अथ संज्ञान्तराण्यपि प्रकृतोपयुक्तानि कथ्यन्ते- १८० । शि सर्वनामस्थानम् । (१-१-४२) नपुंसके स्वौजसमौट्शस् इति प्रथमाद्वितीयाप्रत्ययानाम् अम्, शी, शि इत्यादेशा वक्ष्यन्ते । तत्र 'शि' इति प्रथमाद्वितीययोर्बहु- चचनस्य सर्वनामस्थानमिति संज्ञा ॥ १८१ । सुडनपुंसकस्य । (१-१-४३) ‘सुद्' इति 'औट्' इत्यस्य टकारेण प्रत्याहारः सु, औ, जस्, अम्, औट् इति प्रथमां द्वितीयैकवचन द्विवचने च क्रोडीकरोति । पुंस्त्रियोः स्वादीनि पञ्च वचनानि सर्वनामस्थानसंज्ञानि स्युः । नपुंसके तु पूर्वसूत्रेण ' शि' इति प्रथमाद्वितीययोर्बहुवचनस्य परं सर्वनामस्थानत्वम् || 6 १८२ | आ 'कडारा' - देका संज्ञा । (१-४-१) 'कडारा: कर्मधारये' (२-२-३८) इति द्वितीयाध्यायद्वितीय- पादान्तिमसूत्रमभिव्याप्य एकस्यैकैव संज्ञा बोध्या । विप्रतिषेधे तु 'या परानवकाशा च' सा ग्राह्येति वात्तिककार: । अन्यत्व संज्ञाविधा- चुत्सर्गापवादन्यायो न संचार्य इति नियमार्थमयमेकसंज्ञाधिकारः ॥ नदी घि-लघु गुर्वङ्गं पदं भं वचनत्रयम् । अपादानं संप्रदानं करणं च ततः परम् ॥ १ ॥ अथाधिकरणं कर्म कर्ता हेतुश्च कारकम् । गतिर्निपातोपसर्गौ कर्मप्रवचनीयकाः ॥ २ ॥ २

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१००&oldid=347466" इत्यस्माद् प्रतिप्राप्तम्