एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये उपग्रहो विभक्तिश्च संहिता चावसानकम् । समासाश्चेति संज्ञाः स्युरेकसंज्ञाधिकारगाः ॥ ३ ॥ अन्यत्व तु एकस्य बहवः संज्ञा भवन्त्येव । यथा – सर्वशब्दः प्राति- पदिकं, सर्वनाम च; सर्वे इति द्विवचनं प्रगृह्यं च । अधिकारेऽस्मिन्- १८३ | यू स्त्र्याख्यौ नदी । (१-४-३) ई च, ऊ च-यू इत्यविभक्तिको निर्देशः स्पष्टप्रतिपत्त्यर्थः । स्त्र्याख्यौ स्त्रीवाचकौ । ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । यथा- कुमारी, गौरी, लक्ष्मीः, तनूः, यवागूः, कर्कन्धूः । प्रत्यु० – ('स्त्रयाख्यौ' किम् ? ) ग्रामणीः, सेनानीः, खलपूः । ॥ * ॥ प्रथमलिङ्गग्रहणं च ॥ स्त्रयाख्यस्योपसर्जनत्वेन लिङ्गान्तरविशिष्टं प्रति न्यग्भावेऽपि सहजं स्त्रीत्वं निमित्तीकृत्य नदीत्वं भवतीत्यर्थः । यथा- अतिलक्ष्मीः पुरुषः, तस्मै अतिलक्ष्म्यै इति नदीकार्यम् । ८२ [सुबन्त १८४ । नेयङुवङ्स्थानावस्त्री । (१-४-४) इयङुवङावादेशौ विधास्येते; तयोः स्थानिनौ यावीदूतौ तदन्तौ न नदीसंज्ञौ । स्त्रीशब्दस्तु इयङस्थान्यपि नदीसंज्ञ एव । किप् इति सर्वलोपी कश्चित् कृत्प्रत्ययोऽस्ति; तदन्तानि प्रातिपदिकानि विकारा- भावाद्धातव एवेति कल्प्यते । तथा च वचनम् – 'क्विबन्ता धातुत्वं न जति' इति । भी, ह्री, श्री, भू इत्यादयो धातुसमानरूपाः, तेषाम् ईदूतौ इयङुवङ्स्थानिनौ । अतस्ते न नदीसंज्ञाः । तेन हे भी:, हे भूः इत्येव रूपम्; न तु हे भि; हे भु इति नदीहस्वः । स्त्रीशब्दस्य तु निषेधनिषेधात् हे स्त्रि इति नदीरूपं स्यादेव ॥ । १. उपग्रहः परस्मैपदात्मनेपदे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०१&oldid=347468" इत्यस्माद् प्रतिप्राप्तम्