एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त यस्माद्धातोर्वा प्रातिपदिकाद्वा प्रत्ययो विधीयते तदादि शब्दरूपं तस्मिन् प्रत्यये परे अङ्गसंज्ञं स्यात् । धातोः प्रत्ययविधौ मध्ये विकरण- प्रत्ययोऽपि परापतेत्; तदा विकरणविशिष्टस्य धातोरङ्गसंज्ञासिद्ध्यर्थ 'तदादि' इति । यथा – 'सु' इति धातुः ; तस्मात् 'ति' इति तिङ्- प्रत्ययः । तस्मिन् परे धातो: 'नु' इति विकरणप्रत्ययः; 'सुनुति' इति जातम् । तत्र 'सुनु' इत्यंश: तिप्रत्ययं प्रत्यङ्गम् ; अङ्गस्य विहितेन गुणेन 'सुनोति' इति रूपसिद्धिः । इदं तिप्रक्रियायां स्पष्टतरं भवि- घ्यति । सुपूप्रक्रियायां तु प्रकृतिभूतं प्रातिपदिकमेवाङ्गशब्देनोच्यते || सुप्तिङन्तं पदम् । (१-४-१४) व्याख्यातमिदम् । १२८ । [१९० । नः क्ये । (१-४-१५) क्य इत्येवंरूपे प्रत्यये परे नकारान्तं पदसंज्ञं स्यात् । क्यप्रत्ययः पदादेव विधीयते; अतः सिद्धे विधिः 'नान्तमेव क्यप्रत्यये परे पद- संज्ञम्' इति नियमार्थः । इदमुचिते प्रकरणे उदाहरिष्यते ।। ८४ १९१ । सिति च । (१-४-१६) सिति प्रत्यये परे पूर्वे पदसंज्ञं स्यात् । 'यचि भम्' इति वक्ष्य- माणाया भसंज्ञायाः पुरस्तादपवादोऽयम् । तद्धितेष्वस्योपयोगः ॥ ] १९२ । स्वादिष्वसर्वनामस्थाने । (१-४-१७) सुपः स्त्रीप्रत्ययास्तद्धिताश्च स्वादयः; तेषु सर्वनामस्थानव्यतिरि- तेषु परेषु पूर्वा प्रकृति: पदसंज्ञा स्यात् । 'शि सर्वनामस्थानम् ' (१८०), 'सुडनपुंसकस्य' (१८१) इति सर्वनामस्थानसंज्ञा पूर्वमेव लक्षिता । 'सुप्तिङन्तं पदम्' (१२८) इति सुबन्तमेव प्रयोगार्ह लौकिकं १. प्रत्ययविधिस्तृतीयचतुर्थपञ्चमैरध्यायैः क्रियते । तत्र तृतीये धातोरित्यधि- कृत्य चतुर्थपञ्चमयोः प्रातिपदिकादित्यधिकृत्य च प्रत्यया विधीयन्ते इति भूयिष्ठं संभव मत्वैवमुक्तम् । तेन स्त्रीप्रत्ययान्तस्य क्वचित्तिङन्तस्य चाङ्गसंज्ञा भवत्येव । श्रीयन्ते इति भूयिष्ठं संभवं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०३&oldid=347470" इत्यस्माद् प्रतिप्राप्तम्