एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ लघुपाणिनीये [सुबन्त एषु तिर्यग्रेखाया उपरिगतं, वलयान्तर्गतं च सर्वनामस्थानम् ; शेषेषु स्थूललिपिभिर्मुद्रितानां प्रकृतिः पदं, परिशिष्टानां प्रकृतिर्भम् । एषां विभागानां तत्तत्संज्ञाकार्यैरेकरूपा भवति प्रक्रिया ॥ (२) संधिकार्याणि । स्वरसंधिविधौ पदान्तसंधिरुभयसंधिश्चैव कथितौ; न तु पद- मध्यसंधिरिति स इदानीमुच्यते । 'अक: सवर्णे दीर्घः' (५४) इत्यु- क्त्वा तदुत्तरं सूत्रयत्याचार्यः- १९५ । प्रथमयोः पूर्वसवर्ण: (६-१-१०२) प्रथमयोर्विभक्त्योः, प्रथमाद्वितीययोरित्यर्थः । अकः, अचि, दीर्घ इति पदनयमनुवर्तते । अक: प्रथमाद्वितीययोरचि परे पूर्वसवर्णो दीर्घ एकादेशः स्यात् । यथा- - हरि + औ = हरी 1 गुरु + औ = गुरू । १९६ । तस्माच्छसो नः पुंसि । (६-१-१०३) तस्मात् पूर्वसवर्णदीर्घात् परख शसो नकारादेशः स्यात् पुल्लिङ्गे | 'अलोऽन्त्यस्य' इति शसः सकारस्य नकारः । यथा - राम = + असू = रामास् = रामान् हाहा + अस् = हाहास् = हाहान् = हरि + अस् = हरीस् = हरीन् - - - क्लीबे त्वस्य प्रसक्तिरेव नास्ति । वातप्रमी + अस् = वातप्रमीस् = वातप्रमीन् । - प्रत्यु०—(‘ पुंसि’ किम् ? ) रमाः, मती:, गौरी, तनूः, मातॄः । गुरु + अस् = गुरूस् = गुरुन् दृम्भू + असू = दृम्भूस् = दृम्भून् + अस् = पितॄस् = पितॄन् । पितृ - अथ दीर्घोऽयं निषिध्यते-- १९७ । नादिचि । (६-१०४)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०५&oldid=347472" इत्यस्माद् प्रतिप्राप्तम्