एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । अवर्णादिचि परे पूर्वसवर्णदीर्घो न स्यात् । इच् इति व्यापको- ऽप्ययं प्रत्याहारो विषयाभावात् 'औ' 'ई' इति द्विवचनद्वयमेव परा- मृशतीति बोद्धव्यम् । यथा- 6 राम + औ = रामौ, न तु रामा इति | धन + ई = धने, न तु धना इति । १९८ । दीर्घाज्जसि च । (६-१-१०५) दीर्घेभ्यो जसि इचि च परे न पूर्वसवर्णदीर्घः । यथा— गौरी गौर्यो गौर्यः 1 वधूः वध्वौ वध्वः । अपवादैर्निषेधैश्चापहृतव्याप्तिरयं पूर्वसवर्णदीर्घः कुत्र प्रवर्तेतेति विषयोऽस्य कारिकया संगृह्यते- एकादेशः पूर्वदीर्घ (१) इदुतोरौङि, (२) जस्यतः । (३) अकः शसीति त्रिष्वेव; तत्र नत्वं च पुंशसः ॥ औङिति औकारविभक्तेः प्राचां संज्ञा । 'अतो गुणे' इति वक्ष्यमाणं पररूपं बाधितुं 'जस्यतः' इति; अन्यथा 'अक: सवर्ण...' इति दीर्घे- जैव सोऽपि सिध्यति ॥ रमा + हरि + गौरी + अथ पूर्वसवर्णदीर्घस्यापवादः- १९९ । अमि पूर्वः । (६-१-१०७) अक इत्येव । अकः अमि परे पूर्वरूपमेकादेशः । यथा— राम + अम् = रामम् | गुरु + अम् = गुरुम् । = रमाम् । - = हरिम् । = गौरीम् । - = - ८७

  1. f

= वधू + " वधूम् । ऋकारस्य तु गुणविधानान्नायं सं- भवति । >> ‘संप्रसारणाच्च' इत्युत्तरसूत्रमन्यत्र व्याख्यास्यते । 'एङ: पदा- न्तादति' (५५) इति तदुत्तरं सूत्रं व्याख्यातम् || २०० । ङसिङसोध । (६-१-११०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०६&oldid=347473" इत्यस्माद् प्रतिप्राप्तम्