एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । (३) प्रत्ययानामादेशाः ॥ २०४ । अतो भिस ऐस् । (७-१-९) अङ्गस्येत्यधिकृतम् । अदन्तादङ्गात् परस्य भिस ऐस् इत्यादेश: स्यात् । 'न विभक्तौ तुस्मा: ' इति सकारस्य नेत्संज्ञा ; अनेकाल्त्वात् सर्वादेशः । यथा— राम + भिस् = राम + ऐस् = रामैः । प्रकरणम् ] ८९ २०५ । नेदमदसोरकोः । (७-१-११) ‘अव्यय सर्वनाम्नामकच प्राक् टे: ' इति सर्वनाम्नाम् अल्पाद्यर्थे ‘अक' इति प्रत्ययो वा टे: पूर्वे भवति । तद्गर्भकनिरासाथै ‘अकोः ' इति । अकज्रहितयोरिदमदसोर्भिस ऐस् न खात् । इदमदसोः ‘त्यदा- दीनाम:' इत्यदन्तत्वं भवति । अत ऐसादेश: प्राप्नोत्येव । यथा - इदम् –एभिः; अदस्— अमीभिः, अमूभिः । प्रत्यु० – ('अकोः' किम् ? ) अमुकैः । २०६ । टाङसिङसामिनात्स्याः । (७-१-१२) अदन्तादङ्गात् टादीनामिनादय आदेशाः स्युः । टा-इन, ङसि- आत्, ङस् –स्य इति यथासंख्यमादेशा भवन्ति ॥ = राम + आ = रामेन (रेफसांनिध्यान्नस्य णत्वम्) रामेण | राम + अस् = रामात् । राम + अस् = रामस्य | २०७। डेर्यः । (७-१-१३) - अदन्तादङ्गात् डे इति चतुर्थ्येकवचनस्य यादेशः । यथा— राम + ए = राम + य = रामाय ('सुपि च ' इति दीर्घोऽत्र वक्ष्यते ) । २०८ । सर्वनाम्नः स्मै । (७-१-१४) अदन्तात् सर्वनाम्नस्तु ङे इत्यस्य ‘स्मै' इत्यादेशः । यथा सर्वस्मै, पूर्वस्मै, अन्यस्मै, तस्मै इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०८&oldid=347475" इत्यस्माद् प्रतिप्राप्तम्