एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये २०९ । ङसिङयोः स्मात्-स्मिनौ । (७-१-१५) सर्वनाम्न इत्येव । यथा- अदन्तात् सर्वस्मात्, सर्वस्मिन् । तस्मात् तस्मिन् । , २१० । पूर्वादिभ्यो नवभ्यो वा । (७-१-१६) पूर्वादिनवकात् परयोङसिङ यो: यथा – पूर्वस्मात्, पूर्वात्; २११ । जसः शी । (७-१-१७) अदन्तात् सर्वनाम्म्रो जसः शी इत्यादेशः । शित्त्वादयं सर्वादेशो भवति । यथा—सर्व + अस् = सर्व + ई = सर्वे । एवं विश्वे, अन्ये, एके इत्यादि । पूर्वादीनां जसि सर्वनामसंज्ञाया विक- ल्पितत्वात् (१७७-८-९) पूर्वे, पूर्वाः इति रूपद्वयम् ॥ ९० [सुबन्त स्मात् - स्मिनौ विकल्पेनैव । - पूर्वस्मिन् पूर्वे । " २१२ । औङ आपः । (७-१-१८) औङित्यौकारविभक्तेः संज्ञेत्युक्तम् । आप् स्त्रीप्रत्ययः चापू, टापू, डापू वा । आबन्तात् परयोः प्रथमाद्वितीयाद्विवचनयोः शी इत्यादेशः । यथा - रमा + औ = रमा + ई = रमे । २१३ । नपुंसकाच्च । (७-१-१९) स्यात् । यथा- औङ : शी इत्ययमादेश: घन + औ = धन + ई = धने । = यशस् + औ यशस् + ई = यशसी । नामन् + औ = नामन् + ई = नामनी । २१४ । जश्शसोः शि: । (७-१-२०) नपुंसकाजश्शसोः शि इत्ययमादेशः । यथा —वाः वारी वारि । २१५ । अष्टाभ्य औश् । (७-१-२१) ‘अष्टा’ इति कृतात्वस्याष्टन्शब्दस्य प्रहृणार्थम् 'अष्टाभ्यः” इति । तस्माज्जश्शसोरौश् इत्ययमादेशः । शित्त्वात् सर्वादेशः । यथा—

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०९&oldid=347476" इत्यस्माद् प्रतिप्राप्तम्