एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त डतर, डतम, अन्य, अन्यतर, इतर एभ्यस्तु नपुंसकेभ्योऽदन्ते- भ्यः स्वमोः ‘अद्’ इत्यादेशः । यथा— - ९२ - कतर + स् = कतर + अद्,- 'अतो गुणे' इति वक्ष्यमाणं पररूपं, - कतरत्, कतरद् । एवम् अन्यत्, इतरत् इत्यादि । 'प्रथमयोः पूर्वसवर्णः' (१९५) इति दीर्घस्तु नपुंसकेऽनपेक्षित इति न प्रवर्तते ॥ (४) अङ्गकार्याणि ॥ २२२ । हल्-डयाव-भ्यो दीर्घात् सु-ति-स्यपृक्तं हल् । (६-१-६८) लोप इत्यनुवर्तते; स चात्रान्वयानुरोधेन 'लुप्यते' इति विपरि- णम्यते । दीर्घादिति ङयापोर्विशेषणम्; अपृक्तं नाम- संपद् + स् = संपद् वाक् + सू - वाक् - त्विष् + स् = त्विष्, त्विड् - २२३ । अपृक्त एकाल् प्रत्ययः । (१-२-४१) एकवर्णात्मकः प्रत्ययः अपृक्तसंज्ञ: स्यात् इत्युक्तलक्षणम् । हल- न्तात्, दीर्घौ यौ ङयापौ तदन्ताच्च परं सु, ति, सि इति प्रत्ययानाम् अपृक्तं हल् लुप्यते । ‘सु' इति प्रथमैकवचनमेकवर्णात्मकमेव । ति, सि इत्येतौ प्रथममध्यमपुरुषयोरेकवचने; तयोर्लङादिषु लकारेषु इकारलोपे तू, स् इत्यपृक्तत्वं भवति । अथोदाहियते यथा— - ककुभ् + स् = ककुभू, ककुब — 6 = माला माला + सू सीमा + स् सीमा गौरी +स् = गौरी कुमारी + स् = कुमारी आप् । १. अत्र व्याख्यातारः ‘अडतरादिभ्यः' इति सूत्रे डकारप्रश्लेषेण ‘अद्ड्’ इति रूप- इत्यादेशस्त्र स्वरूपं प्रकल्प्य डित्त्वात् प्रकृतेष्टिलोपेन कतर् + अद् = अबु = फतरद् इति सिद्धिं संपाद्य ‘प्रथमयोः पूर्वसवर्णः' इति दीर्घस्यावकाशं वारयन्ति । }ङी।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१११&oldid=347478" इत्यस्माद् प्रतिप्राप्तम्