एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । हरि + ए = हरे + ए = हरये । = - गुरु + ए = गुरो + ए = गुरवे । = - हरि + अस् = हरे अस्– ‘ङसिङसोश्च' (२००) इति पूर्वरूपे, हरेस् = हरेः । गुरु + अस = गुरो + अस् – ( पूर्वरूपम् ) = गुरोः । षष्ठ्येकवचनेऽपि तुल्यं रूपम् । ङौ तु विशेषो वक्ष्यते । = । २३६ । आण् नद्याः । (७-३-११२) नदीसंज्ञात् परस्य ङित्प्रत्ययस्य आडागम: स्यात् । टित्त्वादाद्या- - वयवः । आ + ए = ऐ ; आ + असू = आस् । यथा— गौरी + आस् = गौर्याः । । गौरी + ऐ = गौयै । वधू + ए = वध्वै । वधू + आस् : = वध्वाः । ९५ २३७ । याडापः । (७-३-११३) आबन्तात् ङित्प्रत्ययस्य याडागमः । या + ए = यै ; या + अस् = यास् । यथा- —रमा + यै = रमायै । = रमा + यासू = रमायाः । २३८ । सर्वनाम्नः स्याङ्दूस्खश्च । (७-३-११४) आबन्तात् सर्वनाम्नस्तु ङित्प्रत्ययस्य स्याट् इत्यागमः । तत्सं- नियोगेन आपो ह्रस्वत्वं च । यथा – सर्वा – सर्वस्यै सर्वस्याः । - २३९ । डेराम्नद्याम्नीभ्यः । (७-३-११६) नदीसंज्ञादाबन्तात् नीशब्दाच्च डे: 'आम्' इत्यादेशः । यथा - गौरी — गौर्याम् । रमा -रमायाम् । (२३७ सूत्रेण याडागमश्च) सर्वा – सर्वस्याम् । (२३८ सूत्रेण स्याडागमहस्खौ) नी – नियाम् । (इयङादेशोऽत्र वक्ष्यते) - २४० । इदुद्भ्याम् । (७-३-११७) नदीसंज्ञकाभ्याम् इकार-उकाराभ्यां परस्य डेराम् । उत्तरसूत्रेण औत्त्वं मा भूदिति वचनम् ; अन्यथा पूर्वसूत्रेणैवावाप्यां सिध्यति । यथा- मति — मत्याम् । धेनु - धेन्वाम् ।

-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११४&oldid=347481" इत्यस्माद् प्रतिप्राप्तम्