एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । २४५ । त्रेस्त्रयः । (७-१-५३) त्रि इत्यस्य आमि परे त्रय इत्यादेशः । उत्तरसूत्रेण त्रयाणा- मिति रूपसिद्धिः ॥ प्रकरणम् ] २४६ । हस्वनद्यापो नुट् । (७-१-५४) ह्रस्वान्तान्नदीसंज्ञादाबन्ताच्च आमो नुडागमः ॥ राम + आं = राम + नाम्–‘नामि' इति वक्ष्यमाणः प्रकृतेर्दीर्घः, रामानाम् - णत्वं - रामाणाम् । एवं धनानाम्, हरीणाम, गुरूणाम्, पितॄणाम् ; (नदी) गौरीणाम् वधूनाम्; (आप् ) रमाणाम् जायानाम् । - २४७ । षट्चतुर्ग्यश्च । (७-१-५५) 'षट्संज्ञकेभ्यः' (२१७) चतुरश्च परख आमो नुडागमः ॥ चतुर् + आं = चतुर्नां-चतुर्णाम् । षष् + आं = षष्नां–‘झलां जशोऽन्ते' (६९) – षड्नां— 'न पदान्ताहोर- नाम्’ (१०४) इति टुत्वनिषेधस्य निषेधात् टुत्वम्, षड्णां–'प्रत्यये भाषायां नित्यम्' (१०७-वा) इत्यनुनासिकादेशः, षण्णाम् । पञ्चन् + आं = पञ्चन् + नां–‘नोपधायाः' (२५१) इति दीर्घः–पञ्चान् नां -वक्ष्यमाणः प्रकृतेर्नलोपः – पञ्चानाम | एवम् – सप्तानाम्, अष्टानाम्, नवानाम् दशानाम्, कतीनाम् । - अथ 'रामाणाम्' इत्यादौ परामृष्टो दीर्घविधिरुच्यते- , , दीर्घं इत्यनुवर्तमाने ‘अङ्गस्य' (६-४-१) इत्यधिकृत्य - २४८ । नामि । (६-४-३) कृतनुडागमे आमि परे अङ्गस्य दीर्घः स्यात् ॥ रामाणाम्, धनानाम्, हरीणाम्, गुरूणाम्, पितॄणाम् । २४९ । न तिसृचतसृ । (६-४-४) अनयोर्नामि न दीर्घः । तिसृणाम् । चतसृणाम् । २५० । नृ च (उभयथा) । (६-४-६) नृशब्दस्य नामि दीर्घस्तदभावश्च स्यात् । नृणाम्, नृणाम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११६&oldid=347483" इत्यस्माद् प्रतिप्राप्तम्