एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ लघुपाणिनीये २५१ । नोपधायाः । (६-४-७) नान्तस्योपधाया दीर्घो नामि परे ॥ [सुबन्त – पञ्चन् + नां • पञ्चान् + नाम् । अब प्रकिया प्रदर्शनार्थे नलोपविधिर्मध्ये कथ्यते- २५२ । नलोपः प्रातिपदिकान्तस्य । (८-२-७) पदस्येत्यधिकृतम् । तच्च प्रातिपदिकेत्यंशस्य विशेषणम् । सापेक्ष- त्वेऽपि गमकत्वात् समासः । यथा 'रतेर्गृहीतानुनयेन' इत्यादौ । प्राति- पदिकान्तस्य नकारलोपो भवति, तच्चेत् प्रातिपदिकं पदसंज्ञमपि स्यात् ; प्रातिपदिकाभिन्नस्य पदस्यान्त्यवर्णो नकारश्चेल्लुप्यत इति यावत् । प्रा- तिपदिकरूपं च पदं सुब्लोपे, हलादौ सुपि परे 'स्वादिष्वसर्वनाम- स्थाने' (१९२) वा संभवति । पञ्चान् + नाम् इति प्रकृते हलादिप्रत्यय- स्य परत्वात् 'पञ्चान्' इति प्रातिपदिकाभिन्नं पदम्; तस्यान्त्यनकार- लोपः, पञ्चानाम् इति रूपं सिध्यति । एवं राजभ्याम्, राजभिः, राजसु इत्यादिषु नलोप: । 'राजा' 'कर्म' इत्यादिप्रथमैकवचनानि हङयादिसूत्रेण सुलोपात् प्रत्ययलोपेन प्रातिपदिकाभिन्नस्य पदस्य नलोपोदाहरणानि । नलोपस्यास्य असिद्धकाण्डगतत्वात् 'नामि' इति दीर्घेण इष्टसिद्धिर्न स्यादित्यपूर्वो 'नोपधायाः' इति विधिरारब्धः । कथं तर्हि 'राजाश्व' इत्यादिसंधि : सिध्यति ? तत्र हि राजन् + अश्व इति स्थिते नलोपेन 'राज + अश्व' इति जाते षष्टाध्यायविहितः सवर्ण- दीर्घो दृश्यते । इति चेत् - ८ २५३ । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । (८-२-२) प्रातिपदिकान्तस्य नलोपो य उक्तः स सुब्विधौ, स्वरविधौ, संज्ञाविधौ, कृत्प्रत्यये परे यस्तुक् तद्विधौ च परम् असिद्धः, नान्यत्र । अतो राजाश्व इत्यादिसंधिविधौ नलोपः सिद्ध एव अ सुविधौ तु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११७&oldid=347484" इत्यस्माद् प्रतिप्राप्तम्