एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त सर्वनामस्थानमात्रे (असंबुद्धौ) दीर्घः; इन्नन्तानां सावेव । उन्नन्ता ऋन्न- न्ताश्च कृत्रिमाः सन्ति शौ; तत्र सर्वेषां दीर्घः । हनुपूषार्यम्णां सावेव दीर्घः इति विशेषविधिः ॥ १०० पुंस्त्रियोः सुट्यनो दीर्घः, इनः सौ, शौ तु सर्वतः । इति संक्षेपः ।। २५८ । सान्तमहतः संयोगस्य । (६-४-१०) सकारान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः खाद- संबुद्धौ सर्वनामस्थाने । 'उगिदचां सर्वनामस्थानेऽधातो:' (२६२) इति सान्तेषु केषांचित् नुमागमो विधास्यते । ते शब्दा अत्रोदाहरणम् । यथा- विद्वस् + स्~नुम्– विद्वन्स् + स्–अनेन सूत्रेण दीर्घः, विद्वान्स् + स्— हल्ङयादिलोपः, विद्वान्स् इति जाते । २५९ । संयोगान्तस्य लोपः । (८-२-२३) पदस्येत्यधिकृतम् । संयोगान्तस्य पदख लोप: स्यात्, 'अलो- ऽन्त्यस्य' इत्यन्त्यवर्णस्य लोपः । इत्यसिद्धकाण्डगतेन सूत्रेण 'न्स्' इति संयोगे अन्त्यस्य सकारस्य लोपः, विद्वान् । नकारस्य पदान्तत्वात् झल्परकत्वाभावाच्च ‘नश्चापदान्तस्य झलि' (९२) इत्यनुस्वारो नात्र भवति । अन्यत्र तु भवत्येव, विद्वांसौ विद्वांसः, विद्वांसं विद्वांसौ । ‘महत्’ इत्यस्याप्येवमेव—-महान् महान्तौ महान्तः, महान्तं महान्तौ इति रूपाणि । अत्र नुम्नकारस्य 'नश्चापदान्तस्य ' • इत्यनुस्वारे कृतेऽपि 'अनुस्वारस्य ययि परसवर्ण:' (११५) इति परसवर्णेन नकार एव पुनश्च भवति । 'विद्वान्' 'महान्' इत्यादौ संयोगान्तलोपस्या- सिद्धत्वान्न 'नलोपः प्रातिपदिकान्तस्य' । असिद्धकाण्डे नलोप एव हि प्रथमं विधीयते । 'राजा (न्)' इत्यादौ तु न संयोगान्तलोपः, किंतु हल्ङयादिलोप इति नकारो लुप्यते । नपुंसके विद्वांसि, महान्ति ॥ — 1

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११९&oldid=347486" इत्यस्माद् प्रतिप्राप्तम्