एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । २६० । अप्-तृन्-तृच्-स्वट-नट-नेष्ट-त्वष्ट-क्षतृ-होतृ- पोतृ-प्रशास्तृणाम् । (६-४-११) प्रकरणम् ] अप् इत्यस्य, तृन्तृच्प्रत्ययान्तानां स्वस्रादीनां च उपधाया दीर्घः स्यात् असंबुद्धौ सर्वनामस्थाने | तृन्तृचौ प्रत्ययौ; अनयोरर्थ एव भेदो न तु रूपे । सर्वेभ्यो धातुभ्यश्चैतौ भवतः । कृ–कर्तृ, भू– भवितृ, दृश्— द्रष्ट इत्यादि । नप्तृनेष्ट्रादयः शब्दा अव्युत्पन्ना इति पृथगुपात्ताः । यथा- - १०१ अप्-- [--आपः – 'आपः स्त्री भूम्नि' इति बहुवचनमात्रेऽस्य प्रयोगः । तृन्, तृच् – कर्तारौ कर्तारः, हे कर्तः कर्तारं कर्तारौ । स्वसृ—स्वसारौ स्वसारः, हे स्वराः, स्वसारं स्वसारौ । नप्तृ – नप्ता नप्तारौ नप्तारः, हे नप्तः नप्तारं नप्तारौ । सौ एषां कर्ता, स्वसा इत्यादि रूपमनङादेशेन वक्ष्यते । 'ऋतो ङि सर्वनामस्थानयोः' (२३४) इति गुणेन कर्तर् + औ इति जाते दीर्घः । संबुद्धौ गुणानन्तरं हल्ङचादिलोपेन 'कर्तर्' इति जाते अवसाने रेफस्य विसर्गः । तृन्तृजादिभिन्नानां तु पितरौ पितरः; मातरौ मातर इत्यादि ।। । २६१ । अत्वसन्तस्य चाधातोः (सौ) । (६-४-१४) अत्वन्तस्य असन्तस्य च उपधाया दीर्घोऽसंबुद्धौ सौ परे न तु धातोः । 'अतु' इत्यत्र उकार इत्; तेन 'मतुप्' ' क्तवतु' इत्यादयः प्रत्यया गृह्यन्ते, उकारानुबन्धेन पठितं प्रातिपदिकं च । यथा सर्वादि- गणे 'भवतु' इति । असन्तः सर्वविधोऽपि गृह्यते । यथा- 6 १. अस्य प्रक्रियाविशेषोऽन्यत्रोक्तः । अपो भि (तः) (७-४-४८) । अप्- शब्दस्य तकारोऽन्तादेशः स्यात् भादौ प्रत्यये परे । तेन – आपः, अपः, अद्भिः, अद्भ्य अन्यः, अपाम्, अप्सु इति रूपाणि । , SGDF २. उद्गातृशब्दस्याप्ययं दीर्घ इष्यते – 'होतृपोतृनेष्टोद्गातारः' इति भाष्यकार प्रयोगात् । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२०&oldid=347487" इत्यस्माद् प्रतिप्राप्तम्