एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त अतु – बुद्धिमत् + स्— दीर्घः; बुद्धिमात् स् – 'उगिदचां......' (२६२) इति नुम्, बुद्धिमान्त् स् – हल्ङयादिलोपसंयोगान्तलोपौ, बुद्धिमान् । एवं कृतवान्, भवान् इत्यादि । १०२ अस् — वेधस् + स्– त्रेधास् स् हल्ङयादिलोपः वेधाः । एवं महायशाः इत्यादि । अथात्र बहुत्रान्यत्रापि परामृष्टो नुम्-विधिरुच्यते- २६२ | उगिदचां सर्वनामस्थानेऽधातोः । (७-१-७०) धातुवर्जमुगिताम् लुप्तनकारस्य अञ्चुधातोश्चाङ्गस्य सर्वनाम- स्थाने परे नुमागम: स्यात् । 'उगितश्च' (१४१) इति सूत्रव्याख्याने उगितः परिगणिताः दृश्यन्ताम् । मित्त्वादन्त्यादचः पर आगमः; उकार उच्चारणार्थः, तेन 'न्' इत्येवागमस्वरूपम् । यथा- बुद्धिमत्- बुद्धिमान् कृतवत्- कृतवान् तावत्-- तावान् विद्वस्- विद्वान् महीयस्— महीयान् कुर्वत्- कुर्वन् सर्वनाम-भवत्- भवान् शतृप्रत्ययान्तस्य तु भवन् बुद्धिमन्तौ इत्यादि । प्रक्रियोक्ता । कृतवन्तौ तावन्तौ विद्वांसौ महीयांसौ कुर्वन्ती भवन्तौ भवन्तौ 99 अत्वन्तत्वाभावान्न दीर्घः । ‘भवतु' इति उदित् पठितः । इत्येव । अथ अञ्चुधातौ नुमागम उदाहियते । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' इति सूत्रेण अञ्चुधातोः 'क्किन्' इति कृत्प्रत्ययो भवति, स च सर्वलोपी प्रत्ययः प्रकृतिगतमनुनासिकमपि लोपयति । तथा च प्रपूर्वः अञ्चुधातुः क्विन्प्रत्यये प्राच् इति रूपमापद्यते । एवमेव प्रत्यच्, पराच्, उदच् इत्यादि । प्राच् + स् इति स्थिते नुम्, प्रान्च् + स्–हल्ङयादिलोपः, प्रान्च् संयोगान्तलोपः, प्रान् । एवं स्थिते क्विन्प्रत्यया- न्तत्वाद्विशेषकार्यम्- २६३ | क्विन्प्रत्ययस्य कुः । (८-२-६२) १. अञ्चु, अङ्क, लुण्ट, स्रंस इत्यादिषु धातुषु उपधाभूतोऽनुनासिकः सर्वोऽपि नकारस्य विकार एवेति सिद्धान्तः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२१&oldid=347488" इत्यस्माद् प्रतिप्राप्तम्