एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । १०३ क्विन्प्रत्ययान्तस्य कबर्गोऽन्तादेशः पदान्ते । अनेन कुत्वे प्राङ् इति रूपसिद्धिः । प्राञ्चौ प्राञ्चः ; प्राञ्चं प्राञ्चौ । एवं प्रत्यङ् प्रत्यञ्चौ ; उदङ् उदञ्चौ इत्यादि । क्लीबे- बुद्धिमन्ति, तावन्ति, कृतवन्ति, विद्वांसि, महीयांसि, कुर्वन्ति, प्राञ्चि, प्रत्यञ्चि इत्यादि । 'वर्तमाने पृषत् बृहत् महत् जगत् शतृवच्च' इत्युणादिसूत्रे 'शतृ- चच्च' इत्यतिदेशात् नुंम्, 'सान्तमहतः...' (२५८) इति दीर्घश्च – महान् - महा- न्तौ-महान्तः । क्लीबे महान्ति । स्त्रियां महती इति ङीप् । २६४ । नपुंसकस्य झलचः । (७-१-७२) झलन्तस्याजन्तस्य च क्लीबस्य नुम् सर्वनामस्थाने । यथा— बृहत् तादृश् यशस् धनुस् महत् धन - - - - - बृहन्ति । रुधू – रुन्धि । भ्राज्– भ्राञ्जि । ताहंशि – 'नश्चापदान्तस्य' इत्यनुस्वारः । - यशांसि " धनूंषि ‘सान्तमहतः संयोगस्य ' (२५८) इति दीर्घः। महान्ति धनन् + इ–नुमागमे नान्तत्वलाभात् 'सर्वनामस्थाने चासंबुद्धौ' (२५५) इति दीर्घः, धनानि । एवं वारि— वारीणि ; मृदु-मृदृनि; कर्तृ-कर्तॄणि । प्रत्यु० – ( 'झलचः' किम् ? ) वार्- वारि ; विमलदिव्-विमलदिवि । २६५ । इकोऽचि विभक्तौ । (७-१-७३) इगन्तस्य नपुंसकस्य अजादौ विभक्तौ नुम् । यथा— मृदु - मृदुनी शुचि -- शुचिनी कर्तृ – कर्तृणी - मृदुना शुचिना कर्तृणा 6 मृदुने मृदुनः मृदुनोः शुचिने शुचिनः शुचिनोः कर्तृणे कर्तृणः कर्तृणोः मृदुनि । शुचिनि । कर्तॄणि । २६६ । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य । (७-१-७४) तृतीयादिष्वजादिषु विभक्तिषु भाषितपुंस्कमिगन्तं क्लीबं पुल्लिङ्ग इव रूपं लभते गालवस्याचार्यस्य मतेन । नुमभावो ह्रस्वाभावश्च पुल्लिङ्ग- कार्यम् । नुमभावे घिसंज्ञया 'आङो नास्त्रियाम्' 'घेङिति' 'अच्च घेः' इति नाभावगुणादयः । नाभावे रूपभेदो न भवतीति नोदाहियते । यथा ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२२&oldid=347489" इत्यस्माद् प्रतिप्राप्तम्