एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ लघुपाणिनीये [सुबन्त - भू–भव + अत् = भवत् — भवन्ती चिकीर्षन्ती (कुले), भवन्ती चिकीर्षन्ती (ब्राह्म- णी) । दिव्—दीव्य + अत् = दीव्यत् — दीव्यन्ती (कुले), दीव्यन्ती (ब्राह्मणी) । २७३ | सावनडुहः । (७-१-८२) सौ परेऽनडुहोऽङ्गस्य नुमागमः । इदमुपरि उदाहरिष्यामः । २७४ । दिव औत् । (७-१-८४) - दिव्-शब्दस्य औदित्यादेशः सौ । यथा – दिव् + स् = दिऔं + स् = द्यौः । दिव् शब्दस्य प्रक्रियान्तरमन्यप्रकरणोक्तम्- २७५ | दिव उत् । (७१-१३१) दिवः अन्तादेश उकारः स्यात् पदान्ते । यथा— दिव् + भ्यां = दिउ + भ्यां = युभ्यां – युभिरित्यादि । = - २७६ । पथिमथ्यृभुक्षामात् । (७-१-८५) , पथिन्, मथिन्, ऋभुक्षिन् इत्येतेषामङ्गानाम् आकारोऽन्तादेशः स्यात् सौ । २७७ । इतोऽत् सर्वनामस्थाने । (७-१-८६) पथ्यादीनामिकारस्य अकारादेशः स्यात् सर्वनामस्थाने । २७८ । थो न्थः । (७१-८७) पथिमथोः थकारस्य न्यादेशः स्यात् सर्वनामस्थाने; अथ सूत्रत्रयमु- दाहियते - पथिन् + स्– आत्वं - पथिआ + स्- इकारस्य अत्वं-पथ + आ + स्— न्थत्वं—पन्था + स् = पन्थाः । एवं मन्थाः, ऋभुक्षाः । पथिन् + औ—अत्वं – पथन् + औ—-थो न्थः -- पन्थन् + औ– सर्वनाम स्थाने.चासम्बुद्धौ' (२५५) इत्युपधादीर्घः पन्थानौ, पन्थानः । पन्थानं, पन्थानौ । एवं मन्थानौ, ऋभुक्षाणौ इत्यादि । २७९ । भस्य टेर्लोपः । (७१-८८) पथ्यादीनां भसंज्ञानां टेर्लोप: स्यात् । यथा-- पथिन् + अस् - पथः । पथा, पथे, पथः, पथोः, पथि । प्रातिपदिकान्तलोपेन (२५२) पथिभ्यां, पथिभ्यः, पथिषु । एवं – मथः, मथे, मथिभ्यां –भ्यः । ऋभुक्षः, ऋभुक्षे, ऋभुक्षिभ्यां – भ्यः इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२५&oldid=347492" इत्यस्माद् प्रतिप्राप्तम्