एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० लघुपाणिनीये अथ भसंज्ञाकार्याणि ॥ २९२ । भस्य । (६-४-१२९) अधिकारसूत्रमिदम् । [सुबन्त २९३ । वसोः संप्रसारणम् । (६-४-१३१) वसुप्रत्ययान्तस्य भस्य संप्रसारणं स्यात् । किं नाम संप्रसारणम् ? २९४ । इग्यणः संप्रसारणम् । (१-१-४५) यणः स्थाने आदिश्यमान इक् संप्रसारणसंज्ञः खात् । यत्र संप्र- सारणं विधीयते तत्र यवरलानपनीय तत्स्थाने इ-उ-ऋ ऌकाराः कर्तव्या इत्यर्थः । अथ संप्रसारणकरणे नियमाः –'एकः पूर्वपरयोः' इत्यधिकारे २९५ । संप्रसारणाच्च (अचि पूर्व:) । (६-१-१०८) संप्रसारणादचि परे पूर्वरूपमेकादेश: स्यात् । पूर्वः संप्रसारणस्वर इक् । तथा च यवरलानामुत्तरस्वरसहितानामक्षररूपाणामेव इ-उ-ऋ- लकाराः कार्या इति फलितम् । २९६ । न संप्रसारणे संप्रसारणम् । (६-१-३७) संप्रसारणे परे पूर्वस्य यणः संप्रसारणं न स्यात् । संप्रसारणार्हस्य यणोऽनेकत्वे परस्य यण एव संप्रसारणं, नान्येषामिति भावः । तथा चानु- पदमेव विधीयमाने 'युवन्' - शब्दस्य संप्रसारणे वकारस्यैव संप्रसारणं, न तु युकारस्य । अथ प्रकृतं सूत्रमुदाहियते- , विद्वस् इति वसुप्रत्ययान्तः शब्दः । तस्य शसि विद्वस् + अस् इति स्थिते वसु- प्रत्ययवकारस्याक्षरस्यान्तरतम्यात् उकारः संप्रसारणम्, विदुस् + अस्वक्ष्यमाणं षत्वम्, विदुषः । विदुषा, विदुषे, विदुषः२, विदुषो:२, विदुषाम्, विदुषि । पदसंज्ञायां तु ‘वसुस्रंसु......’ (७३) इति दत्वं, विद्वद्भ्याम्, विद्वद्भिः । विद्वद्भ्यः । विद्वत्सु । सर्वनामस्थाने 'उगिदचाम्' (२६२) इति नुम्, 'सान्तमहतः दीर्घश्च, विद्वान्-विद्वांसौ-विद्वांसः | हे विन्, विद्वांसम्, विद्वांसौ तमहती (२५०) इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२९&oldid=347496" इत्यस्माद् प्रतिप्राप्तम्