एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ यथा- लघुपाणिनीये ३०२ । अचः । (६-४-१३८) 'अच्' इति लुप्तनकारस्याञ्चतेर्ग्रहणम्; तदन्तस्य भस्याल्लोपः - प्रति अच् + अस– अल्लोप, प्रतिच् + अस् इति स्थिते— ३०३ । चौ (दीर्घः) । (६-३-१३८) ‘अचु' इत्युदिद्धातुः । तस्याकारनकारयोर्लोपे ‘चु' इत्यवशिष्यते । तस्य सप्तम्येकवचनं 'चौ' इति । अकारनकारयोर्लोपात् 'च्' इत्येवं- रूपतां प्राप्ते अञ्चतौ परे पूर्वस्य दीर्घः स्यात् इति दीर्घे—प्रतीचः इति रूपसिद्धि: । प्रतीचा, प्रतीचे, प्रतीच: इत्यादि | प्रत्यु०–(‘भस्य’ किम् ? ) प्रत्यग्भ्यां, प्रत्यग्भिः, प्रत्यग्भ्यः, प्रत्यक्षु । सर्वनामस्थाने 'उगिदचां' इति नुम् - - प्रत्यञ्चः । प्रत्यञ्चम् - प्रत्यञ्चौ । एवम् – प्राङ् - प्रत्यङ्-प्रत्यञ्चौ- इ-प्राञ्चौ... प्राचः । प्राचा प्राग्भ्यां... प्राक्षु । सम्यञ्च्–सम्यङ् सैम्यञ्चौ…..समीचः । समीचा । सम्यग्भ्यां... सम्यक्षु । क्लीबे - प्रत्यक् प्रतीची प्रत्याञ्च । पुनस्तद्वत् । शेषं पुंवत् । प्राची प्राञ्चि यथा- प्राकू सम्यक् समीची सभ्याञ्च " [सुबन्त "" उदच् – उदीचः, उदीचा, उदीचे इत्यादि । सर्वनामस्थाने पदसंज्ञायां च प्रत्यग्वत् । "" ३०४ । उद ईत् । (६-४-१३९) उद् इत्युपसर्गात् परस्य भस्य 'अचः' अकारस्य लोपापवाद ईदादेशः । अञ्चतिप्रकरणादन्यत्र विहितमपि तत्कार्यमुच्यते – ३०५ । तिरसस्तिर्यलोपे । (६-३-९४) १. ‘समः समि’ (६-३-९३) इति सूत्रेण क्विप्रत्ययान्तेऽञ्चतौ 'सम्' इत्युपसर्गस्य ‘समि' इत्यादेशो विधीयते । एवम् 'सहस्य सध्रि' इति सूत्रमप्यत्रानुसन्धेयम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३१&oldid=347498" इत्यस्माद् प्रतिप्राप्तम्